Ashwini Devata Stotram in hindi

Ashwini Devata Stotram in hindi

Ashwini Devata Stotram in hindi

images 7 3

प्रपूर्वगौ पूर्वजौ चित्रभानू
गिरावाशंसामि तपसा ह्यनन्तौ।
दिव्यौ सुपर्णौ विरजौ विमाना-
-वधिक्षिपन्तौ भुवनानि विश्वा ॥ १

हिरण्मयौ शकुनी साम्परायौ
नासत्यदस्रौ सुनसौ वैजयन्तौ।
शुक्लं वयन्तौ तरसा सुवेमा-
-वधिष्ययन्तावसितं विवस्वतः ॥ २

ग्रस्तां सुपर्णस्य बलेन वर्तिका-
-ममुञ्चतामश्विनौ सौभगाय।
तावत् सुवृत्तावनमन्त मायया
वसत्तमा गा अरुणा उदावहन् ॥ ३

षष्टिश्च गावस्त्रिशताश्च धेनव
एकं वत्सं सुवते तं दुहन्ति।
नानागोष्ठा विहिता एकदोहना-
-स्तावश्विनौ दुहतो धर्ममुक्थ्यम् ॥ ४

एकां नाभिं सप्तशता अराः श्रिता
प्रधिष्वन्या विंशतिरर्पिता अराः।
अनेमिचक्रं परिवर्ततेऽजरं
मायाश्विनौ समनक्ति चर्षणी ॥ ५

एकं चक्रं वर्तते द्वादशारं
षणाभिमेकाक्षमृतस्य धारणम्।
यस्मिन् देवा अधिविश्वे विषक्ता-
-स्तावश्विनौ मुञ्चतो मा विषीदतम् ॥ ६

अश्विनाविन्दुममृतं वृत्तभूयौ
तिरोधत्तामश्विनौ दासपत्नी।
हित्वा गिरिमश्विनौ गामुदा चरन्तौ
तद्वृष्टिमह्ना प्रस्थितौ बलस्य ॥ ७

युवां दिशो जनयथो दशाग्रे
समानं मूर्ध्नि रथ यातं वियन्ति।
तासां यातमृषयोऽनुप्रयान्ति
देवा मनुष्याः क्षितिमाचरन्ति ॥ ८

युवां वर्णान्विकुरुथो विश्वरूपां-
-स्तेऽधिक्षिपन्ते भुवनानि विश्वा।
ते भानवोऽप्यनुसृताश्चरन्ति
देवा मनुष्याः क्षितिमाचरन्ति ॥ ९

तौ नासत्यावश्विनौ वां महेऽहं
स्रजं च यां बिभृथः पुष्करस्य।
तौ नासत्यावमृतावृतावृधा-
-वृते देवास्तत्प्रपदे न सूते ॥ १०

सुखेन गर्भं लभेतां युवानौ
गतासुरेतत्प्रपदे न सूते।
सद्यो जातो मातरमत्ति गर्भ-
-स्तावश्विनौ मुञ्चथो जीवसे गाः ॥ ११

स्तोतुं न शक्नोमि गुणैर्भवन्तौ
चक्षुर्विहीनः पथि सम्प्रमोहः।
दुर्गेऽहमस्मिन्पतितोऽस्मि कूपे
युवां शरण्यौ शरणं प्रपद्ये ॥ १२

इति श्रीमहाभारते आदिपर्वणि तृतीयोऽध्याये अश्विन स्तोतम् ।

ashwini devatha stotram,aswini devata stotram,ashwini nakshatra,ashwini nakshatra devta mantra,ashwini devata stotram in telugu,aswini stotram,ashwini,ashwini devata stotram,ashwini devatalu,sri ashwini devata stotram,aswini devatala stotram in telugu,ashwini devata stotram telugu,aditya hrudayam stotram in hindi,pitru devata stotram in telugu,ashwini devathala mantram,ashwini nakshatra mantra,stotram,pitru devatha stotram in telugu,ashwini devathalu

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *