Sri Vamana Stotram 3 lyrics in hindi

Sri Vamana Stotram 3 lyrics in hindi

Sri Vamana Stotram 3 lyrics in hindi

images 2023 12 20T163215.489 3

लोमहर्षण उवाच ।
देवदेवो जगद्योनिरयोनिर्जगदादिजः ।
अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः ॥ १ ॥

परावराणां परमः परापरसतां गतिः ।
प्रभुः प्रमाणं मानानां सप्तलोकगुरोर्गुरुः ।
स्थितिं कर्तुं जगन्नाथः सोऽचिन्त्यो गर्भतां गतः ॥ २ ॥

प्रभुः प्रभूणां परमः पराणा-
-मनादिमध्यो भगवाननन्तः ।
त्रैलोक्यमंशेन सनाथमेकः
कर्तुं महात्मादितिजोऽवतीर्णः ॥ ३ ॥

न यस्य रुद्रो न च पद्मयोनि-
-र्नेन्द्रो न सूर्येन्दुमरीचिमिश्राः ।
जानन्ति दैत्याधिप यत्स्वरूपं
स वासुदेवः कलयावतीर्णः ॥ ४ ॥

यमक्षरं वेदविदो वदन्ति
विशन्ति यं ज्ञानविधूतपापाः ।
यस्मिन् प्रविष्टा न पुनर्भवन्ति
तं वासुदेवं प्रणमामि देवम् ॥ ५ ॥

भृतान्यशेषाणि यतो भवन्ति
यथोर्मयस्तोयनिधेरजस्रम् ।
लयं च यस्मिन् प्रलये प्रयान्ति
तं वासुदेवं प्रणतोऽस्म्यचिन्त्यम् ॥ ६ ॥

न यस्य रूपं न बलं प्रभावो
न च प्रतापः परमस्य पुंसः ।
विज्ञायते सर्वपितामहाद्यै-
-स्तं वासुदेवं प्रणमामि देवम् ॥ ७ ॥

रूपस्य चक्षुर्ग्रहणे त्वगेषा
स्पर्शग्रहित्री रसना रसस्य ।
घ्राणं च गन्धग्रहणे नियुक्तं
न घ्राणचक्षुः श्रवणादि तस्य ॥ ८ ॥

स्वयम्प्रकाशः परमार्थतो यः
सर्वेश्वरो वेदितव्यः स युक्त्या ।
शक्यं तमीड्यमनघं च देवं
ग्राह्यं नतोऽहं हरिमीशितारम् ॥ ९ ॥

येनैकदंष्ट्रेण समुद्धृतेयं
धराचला धारयतीह सर्वम् ।
शेते ग्रसित्वा सकलं जगद्य-
-स्तमीड्यमीशं प्रणतोऽस्मि विष्णुम् ॥ १० ॥

अंशावतीर्णेन च येन गर्भे
हृतानि तेजांसि महासुराणाम् ।
नमामि तं देवमनन्तमीश-
-मशेषसंसारतरोः कुठारम् ॥ ११ ॥

देवो जगद्योनिरयं महात्मा
स षोडशांशेन महासुरेन्द्राः ।
सुरेन्द्र मातुर्जठरं प्रविष्टो
हृतानि वस्तेन बलं वपूंषि ॥ १२ ॥

इति वामनपुराणान्तर्गत श्री वामन स्तोत्रम् ।

dadhi vamana stotram,vamana stotram,vamana,vaman stotra,jain devotional songs in hindi,vamana avatar,vamana stotram in telugu,vamana avatar story in hindi,vaman dwadashi,vaman puran katha in hindi,gajendra moksha stotra in hindi,vamana jayanti ka mahatva in hindi,hindi devotional mantra,sri vamana stotram,vamana avatar story,sri dadhi vamana stotram,shri dadhi vamana stotram,krishna stories in hindi,vamana stotram sanskrit,vamana avatar mantra

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *